वांछित मन्त्र चुनें

अपि॑ वृश्च पुराण॒वद्व्र॒तते॑रिव गुष्पि॒तमोजो॑ दा॒सस्य॑ दम्भय । व॒यं तद॑स्य॒ सम्भृ॑तं॒ वस्विन्द्रे॑ण॒ वि भ॑जेमहि॒ नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

api vṛśca purāṇavad vratater iva guṣpitam ojo dāsasya dambhaya | vayaṁ tad asya sambhṛtaṁ vasv indreṇa vi bhajemahi nabhantām anyake same ||

पद पाठ

अपि॑ । वृ॒श्च॒ । पु॒रा॒ण॒ऽवत् । व्र॒ततेः॑ऽइव । गु॒ष्पि॒तम् । ओजः॑ । दा॒सस्य॑ । द॒म्भ॒य॒ । व॒यम् । तत् । अ॒स्य॒ । सम्ऽभृ॑तम् । वसु॑ । इन्द्रे॑ण । वि । भ॒जे॒म॒हि॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४०.६

ऋग्वेद » मण्डल:8» सूक्त:40» मन्त्र:6 | अष्टक:6» अध्याय:3» वर्ग:24» मन्त्र:6 | मण्डल:8» अनुवाक:5» मन्त्र:6